कन्दली

सुधाव्याख्या

कन्दे सस्यमूले लीयते । ‘लीङ् श्लेषणे' (दि० आ० अ०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः। यद्वा कन्दति । ‘कदि आह्वाने' (भ्वा० प० से०) । वृषादित्वात् (उ० १.१०६) कलच् । गौरादिः (४.१.४१) । (‘कन्दलं त्रिषु कपालेऽप्युपरागे नवाङ्कुरे’) । ‘कलध्वानौ कन्दली तु मृगगुल्मप्रभेदयोः' इति लान्तेषु मेदिनी) । अत एव – इन्नन्तावेतौ – इति स्वामी चिन्त्यः ॥