कदली

सुधाव्याख्या

केति । षडेते हरिणभेदा अजिनयोनयः स्युः । के दलति । ‘दल विशरणे' (भ्वा० प० से०) । अच् (४.१.१३४) । ‘कन्देर्नलोपश्च' इत्यरन् – इति मुकुटस्तु चिन्त्यः । उज्ज्वलदत्तादिषुक्तसूत्रादर्शनात् । ङीष् (४.१.६३) । ‘कदली हरिणान्तरे । रम्भायां वैजयन्त्यां च' इति (लान्तेषु) हैमः । ‘रम्भावृक्षे च कदली पताकामृगभेदयोः' (इति लान्तेषु मेदिनी) । ‘कदलं त्रिषुः' इत्यमरमाला ॥