हरिणः

सुधाव्याख्या

हरति मन:, ह्रियते गीतेन वा । ‘श्यास्त्याह- विभ्य इनच्’ (उ० १.४६) । ‘हरिणः पुंसि सारङ्गे विशदे त्वभिधेयवत् । हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्णप्रतिमायां च’ (इति मेदिनी) ॥