मृगः

सुधाव्याख्या

मृग इति । मृग्यते व्याधैः । ‘मृग अन्वेषणे' (चु० आ० से०) । घञ् (३.३.१९) ।-‘घञर्थे कः' (वा० ३.३. ५८) — इति मुकुटः। तन्न । परिगणनात् । घञापि रूप-सिद्धेः । अदन्तत्वाद्गुणाप्रसङ्गात् । ‘मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणायां याञ्चायां मृगी तु वनितान्तरे' इति विश्वमेदिन्यौ ॥