गृह्मकः

सुधाव्याख्या

गृह्यते । ‘ग्रह उपादाने’ (क्र्या० उ० से०) । ‘पदास्वैरिबाह्यापक्ष्येषु च’ (३.१.११९) इति क्यप् । ‘गृह्यं गुदे ग्रन्थभेदे क्लीबं, शाखापुरे स्त्रियाम्, । गृहासक्तमृगादौ ना, त्रिषु चास्वैरिपक्ष्ययोः’ (इति मेदिनी) । ततोऽनुकम्पायां कन् (५.३.७६) । ‘गृह्यको निघ्नके छेके’ (इति मेदिनी) ॥


प्रक्रिया