छेकः

सुधाव्याख्या

गृहेति । छ्यति छीयते, वा । ‘छो छेदने’ (दि० प० अ०) । बाहुलकादीकन् । ‘छेको गृहाश्रितमृगपक्षिणोर्नागरे त्रिषु’ (इति मेदिनी) । ‘छेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे’ इति चवर्गादौ रभसः ॥