तैत्तिरम्

सुधाव्याख्या

कपोतादीनां गणस्य पृथक्पृथगेकैकम् । | कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति । तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोतानाम्, शुकानाम्, मयूराणाम्, तित्तिरीणाम्, च गणः । ‘अनुदात्तादेरञ्’ (४.२.४४) । शुकात्तु ‘तस्य समूहः’ (४.२.३७) इत्यण् । आदिना काकवर्तकोलृकादीनां ग्रहः । ‘कापोतो रुचके, क्लीबं कपोतौघेऽञ्जनान्तरे’ (इति मेदिनी) ॥ ‘शौकं शुकगणे स्त्रीणां करणे’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


तित्रिय + ङस् + अञ्
तित्रिय + अण्
तित्रिय + अ
तित्रिय् + अ
तैत्रिय + अ
तैत्रिय + सु
तैत्रियम् +