कदम्बकम्

सुधाव्याख्या

कुत्सितमम्बते, अम्ब्यते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) । अच् (३.१.१३४) ‘कोः कत्-’ (६.३.१०१) । घञ् (३.३.१९) वा । कदति, कद्यते वा । ‘कदिः सौत्रः । बाहुलकादम्बच् । ‘कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्’ (इति मेदिनी) ॥