मल्लिकाख्यः

सुधाव्याख्या

मलीति । किंचिद्धूम्रवर्णैश्चञ्चुचरणैरुपलक्षिताः । ‘मल्लिक’ | इति आख्या येषां ते । मल्लते । ‘मल्ल धारणे’ (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । स्वार्थे कन् (५.३.७५) । -‘अच इः’ (उ० ४.१३९)—इति मुकुटः । तन्न । मल्लेर्लान्तत्वात् । ‘मल्लिको हंसभेदे स्यात् तृणशून्येऽपि मल्लिंका' इति रुद्रः । ‘मल्लिको हंसभिद्यपि । मल्लिका तृणशूल्येऽपि मीनमृत्पात्रभेदयोः’ (इति मेदिनी) । मल्लिकाकारमक्षि यस्य । शुक्लापाङ्गत्वात् (इति ‘मल्लिकाक्षः’) इति स्वामी । ‘बहुव्रीहौ सक्यक्ष्णोः’ (५.४.११३) इति षच् ॥