कोकिलः

सुधाव्याख्या

कोकते । ‘कुक आदाने' (भ्वा० आ० से०) । ‘सलि कल्यनि-' (उ० १.५४) इतीलच् । –‘अजि रादयश्च' इति किरः - इति मुकुटः । तन्न । किरचि गुणाभावप्रसङ्गात् । कोकतेरजिराद्यनन्तर्भावात् उज्ज्वलदत्तादिष्वस्य सूत्रस्यादर्शनाच्च ॥


प्रक्रिया

धातुः -


कुकँ आदाने
कुक् - उपदेशेऽजनुनासिक इत् 1.3.2
कुक् + इलच् - सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (१.५४) । उणादिसूत्रम् ।
कुक् + इल - हलन्त्यम् 1.3.3
कोक् + इल - पुगन्तलघूपधस्य च 7.3.86
कोकिल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोकिल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोकिल + रु - ससजुषो रुः 8.2.66
कोकिल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोकिलः - खरवसानयोर्विसर्जनीयः 8.3.15