कृकणः

सुधाव्याख्या

कृकेति । 'कृ' इति कणति । ‘कण शब्दे' (भ्वा० प० से०) । अच् (३.१.१३४) । कृकेण कण्ठेन अणति वा । ‘अण शब्दे' (भ्वा० प० से०) । अच् (३.१.१३४) । शकन्ध्वादिः (वा० ६.१.९४) ॥