वसिरः

सुधाव्याख्या

वस्ते । ‘वस आच्छादने' (अ० आ० से०) । बाहुलकात्किरच् ॥ तालव्यपाठे तु वष्टि । ‘वश कान्तौ' (अ० प० से०) । संज्ञापूर्वकत्वान्न सम्प्रसारणम् । ‘वशिरः पुमान् । किणिहीहस्ति पिप्पल्यो:, 'क्लीबेऽब्धिलवणे स्मृतम्' (इति मेदिनी) ॥