पिप्पली

सुधाव्याख्या

पिपर्ति । ‘पॄ पालनपूरणयोः' (जु० प० से०) । बाहुलकादलच् । पृषोदरादिः । गौरादिः (४.१.४१) । 'पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ । निरर्गले पक्षिभेदे कणायां पिप्पली स्मृता' (इति मेदिनी)॥