कालमेशिका

सुधाव्याख्या

काले मिश्यते । ‘मिश शब्दे' (भ्वा० प० से०) । कर्मणि घञ् (३.३.१९) । गौरादिः (४.१.४१) । स्वार्थे कन् (५.३.७५) ॥ कालं वर्णं मिषति । ‘मिष स्पर्धायाम्' (तु० प० से०) । पूर्ववत् मूर्धन्यषा, इति वा । ‘मञ्जिष्ठा कालमेषी च' इति निघण्टुः ॥


प्रक्रिया

धातुः - मिशँ शब्दे रोषकृते गतौ च


मिश् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काल + ङि + मिश् + घञ् - उपपदमतिङ् 2.2.19, अकर्तरि च कारके संज्ञायाम् 3.3.19
काल + मिश् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
काल + मिश् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काल + मेश - पुगन्तलघूपधस्य च 7.3.86
कालमेश + ङीप् - षिद्गौरादिभ्यश्च 4.1.41
कालमेश + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कालमेश् + ई - यस्येति च 6.4.148
कालमेशी + सु + कन् - संज्ञायां कन् 5.3.75
कालमेशी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कालमेशी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कालमेशिक - केऽणः 7.4.13
कालमेशिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कालमेशिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कालमेशिका - अकः सवर्णे दीर्घः 6.1.101
कालमेशिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कालमेशिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कालमेशिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68