वर्वरः

सुधाव्याख्या

वर्वर्ति । ‘वृञ् वरणे' (स्वा० उ० से०) ॥ यलुगन्तः । पचाद्यच् (३.१.१३४) ॥


प्रक्रिया

धातुः - वृञ् वरणे


वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृ + यङ् - धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 3.1.22
वृ + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृ + वृ + य - सन्यङोः 6.1.9
व रुक् + वृ + य - ऋतश्च 7.4.92
व र् + वृ + य - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर् + वृ + य + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वर् + वृ + य + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वर् + वृ + अ - यङोऽचि च 2.4.74
वर् + वर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
वर्वर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वर्वर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्वर + रु - ससजुषो रुः 8.2.66
वर्वर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वर्वरः - खरवसानयोर्विसर्जनीयः 8.3.15