मीनात्यरुचिम् । ‘मीञ् हिंसायाम् (क्र्या० उ० अ०) । बाहुलकात्तुन् । लुञ्ज्यते । ‘लुजि भासार्थ: (चु० प० से०) । घञ् (३.३.१९) न्यङ्क्वादिः (७.३.५३) । मातुश्चासौ लुङ्गश्च । स्वार्थे कन् (५.३.७५) ॥ स्वामी तु चतुर्णा पर्यायतामाह । तदुक्तम् - ‘फलपूरो बीजपूरः केसरी बीजपूरकः। बीजकः केसराम्लश्च मातुलुश्च पूरक:' । अनेकार्थे - ‘सौवर्चलं मातुलङ्गं शिलाचन्दनपेषणी । ग्रीवाभरणकं चैषु चतुर्षु रुचकं स्मृतम्' इति ।