रुचकः

सुधाव्याख्या

रुचेति । रोचते । ‘रुच दीप्तावभिप्रीतौ च' (भ्वा० आ० से०) । अन्तर्भावितण्यर्थः । क्वुन् (उ० ३.३२) । 'रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वा भरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्यद्रव्ये चाप्युत्कटेऽपि च (इति मेदिनी) ॥