फलपूरः

सुधाव्याख्या

फलेति । फलेन पूर्यते । ‘पूरी आप्यायने' (दि० आ० से०) । ‘इगुपध-' (३.१.१३५) इति कः । कर्मणि घञ् (३.३.१९) वा । मुकुटस्तु-फलं बीजं च पूरयति । कः इत्याह । तत्राणुचितः । इगुपधत्वाभावाण्णिजन्तस्य ॥