ओड्रपुष्पम्

सुधाव्याख्या

ओड्रेति । आ ईषदुनत्ति । 'उन्दी क्लेदने' (रु० प० से०) । ‘स्फायितञ्चि-' (उ० २.१३) इति रक्, बाहुलकाद्दस्य डत्वम् । ओड्रं पुष्पमस्य । यत्तु-‘उड श्लेषणे' । बाहुलकाद्रन् इति मुकुटः । तन्न । धातुपाठे उडेरदर्शनात् । ('ओड्राः पुंभूम्नि नीवृति । ओड्रः ख्यातो जवापुष्पे' इति मेदिनी) ॥


प्रक्रिया

धातुः - उन्दीँ क्लेदने


उन्द् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + उन्द् + रक् - स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-खिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (२.१३) । उणादिसूत्रम् ।
आ + उन्द्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उड्र - बाहुलकात् ।
ओड्र - आद्गुणः 6.1.87
ओड्र - आद्गुणः 6.1.87
ओड्र + सु + पुष्प + सु - अनेकमन्यपदार्थे 2.2.24
ओड्रपुष्प - सुपो धातुप्रातिपदिकयोः 2.4.71
ओड्रपुष्प + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ओड्रपुष्प + अम् - अतोऽम् 7.1.24
ओड्रपुष्पम् - अमि पूर्वः 6.1.107