कुरुण्टकः

सुधाव्याख्या

तत्रेति । रुण्टति । ‘रुटि स्तेयकरणे' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । क्वुन् (उ० २.३२) वा । कुत्सित: कोर्वा रुण्टकः । ‘कुगति-' (२.२.१८) इति समासः । ‘कुरुण्टकः पीतपुष्पाम्लानझिंटिकयोः पुमान्’ (इति मेदिनी) ॥