कुरवकः

सुधाव्याख्या

तत्रेति । तत्राम्लाने शोणे रक्ते । कुत्सित ईषद्वालीनां अल्पमकरन्दत्वाद् रवोऽत्र । बहुव्रीहित्वान्न कादेशः । ‘कुरवकः शोणा म्लानझिण्टीप्रभेदयोः' (इति मेदिनी) ॥ कु ईषद्रौति । संज्ञायां क्वुन् (उ० २.३२) । उवङ् (६.४.७७) । उकारद्वयवान् । (कुरुवकः) इति मुकुटः ॥