गायत्री

सुधाव्याख्या

गायेति । गायन्तं त्रायते । ‘त्रैङ् पालने' (भ्वा० आ० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ‘गायत्री खदिरे स्त्री स्यात्' इति रभसः । ‘गायत्री त्रिपदादेवीछन्दोभित्खदिरेषु च' ॥ ‘वह्रिगायत्रिणां तथा' इति वैद्यकान्नान्तोऽपि । व्रीह्यादित्वात् (५.२.११६) इनिः ॥


प्रक्रिया

धातुः - त्रैङ् पालने


त्रै - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गायत् + अम् + त्रै + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
गायत् + त्रै + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गायत् + त्रै + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गायत् + त्रा + अ - आदेच उपदेशेऽशिति 6.1.45
गायत् + त्र् + अ - आतो लोप इटि च 6.4.64
गायत्त्र + इनि - व्रीह्यादिभ्यश्च 5.2.116
गायत्त्र + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गायत्त्र् + इन् - यस्येति च 6.4.148
गायत्त्रिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गायत्त्रीन् + स् - सौ च 6.4.13
गायत्त्रीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
गायत्त्री - नलोपः प्रातिपदिकान्तस्य 8.2.7