मधुपर्णिका

सुधाव्याख्या

मध्विव पर्णान्यस्याः । ‘पाककर्ण-' (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

मधु + सु + पर्ण + जस् - उपमानानि सामान्यवचनैः 2.1.55
मधु + पर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
मधुपर्ण + ङीष् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
मधुपर्ण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मधुपर्ण् + ई - यस्येति च 6.4.148
मधुपर्णी + कन् - संज्ञायां कन् 5.3.75
मधुपर्णी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मधुपर्णिक - केऽणः 7.4.13
मधुपर्णिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मधुपर्णिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मधुपर्णिका - अकः सवर्णे दीर्घः 6.1.101
मधुपर्णिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मधुपर्णिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मधुपर्णिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68