गम्भारी

सुधाव्याख्या

गमिति । कं जलं बिभर्ति । ‘डुभृञ् धारणपोषणयोः' (जु० उ० अ०) । 'कर्मण्यम्' (३.२.१) । पृषोदरादित्वात् गत्वम् ॥ ‘कंभारी' इत्यपि ॥


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
क + अम् + भृ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
कम् + भृ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कम् + भृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कम् + भार् + अ - अचो ञ्णिति 7.2.115
कम् + भार + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
कम्भार + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कम्भार् + ई - यस्येति च 6.4.148
गम्भारी - पृषोदरादीनि यथोपदिष्टम् 6.3.109
गम्भारी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गम्भारी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गम्भारी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68