धनुष्पटः

सुधाव्याख्या

दधन्ति धारयति । ‘धन धान्ये' (जु० प० से०) । ‘भृमृशी-' (उ० १.७) इत्युः । ‘धनुः पियालद्रुमः' इति रूपरत्नाकरः। ‘धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने' इति नान्तेषु मेदिनी ॥ उसिः (उ० २.११७) वा । ‘धनुः पियाले ना, न स्त्री राशिभेदे शरासने” इति सान्तेषु च मेदिनी ॥ पटति । ‘पट गतौ' (भ्वा० प० से०) । अच् (३.१.१३४) । ‘पटः प्रियालवृक्षे ना सुचेले पुनपुंसकम्' इति रभसः ॥ ‘धनुष इव पटो विस्तारोऽस्य, समस्तं नाम' इति स्वामी ॥


प्रक्रिया

धातुः - धनँ धान्ये , पटँ गतौ


धनँ धान्ये
धन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धन् + उसि - अर्तिपॄवपियजितनिधनितपिभ्यो नित् (२.११७) । उणादिसूत्रम् ।
धन् + उस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पटँ गतौ
पट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पट् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धनुस् + सु + पट + सु - उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2.1.56
धनुस् + पट - सुपो धातुप्रातिपदिकयोः 2.4.71
धनुष्पट - नित्यं समासेऽनुत्तरपदस्थस्य 8.3.45
धनुष्पट + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धनुष्पट + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धनुष्पट + रु - ससजुषो रुः 8.2.66
धनुष्पट + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धनुष्पटः - खरवसानयोर्विसर्जनीयः 8.3.15