पियालः

सुधाव्याख्या

पीयते । ‘पीयुः' सौत्रो धातुः । ‘पीयुक्वणिभ्यां कालन् ह्रस्व:' (उ० ३.७६) ॥ बाहुलकात् प्रीणातेः कालति प्रियालश्च । ‘प्रियालश्च पियालकः' इति माधवः ॥


प्रक्रिया

धातुः - पीयुः इति सौत्रो धातुः


पीय् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिय् + कालन् - पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च (३.७६) । उणादिसूत्रम् ।
पिय् + आल - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पियाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पियाल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पियाल + रु - ससजुषो रुः 8.2.66
पियाल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पियालः - खरवसानयोर्विसर्जनीयः 8.3.15