राजादनम्

सुधाव्याख्या

राजेति । राजभिरद्यते । ‘अद भक्षणे' (अ० प० अ०) । कर्मणि ल्युट् (३.३.११३) । ‘राजादनं क्षीरिकायां पियाले किंशुकेऽपि च' ॥ ‘राजातनम् इति पाठे राजानमतति, इति वा ल्युः (३.१.१३४) । ‘राजादनं प्रसरको राजातनः' इति वाचस्पतिः ॥