शीतः

सुधाव्याख्या

श्यायते स्म । ‘श्यैङ् गतौ' (भ्वा० आ० अ०) । 'गत्यर्थाकर्मक-' (३.४.७२) इति क्तः । ‘द्रवमूर्ति-' (६.१.२४) इति संप्रसारणम् । ‘हल:' (६.४.२) इति दीर्घः ॥