श्लेष्मातकः

सुधाव्याख्या

श्लेष्माणमतति । ‘अत सातत्यगमने (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (उ० २.३२) ॥


प्रक्रिया

धातुः - अतँ सातत्यगमने


अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्लेष्मन् + अम् + अत् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
श्लेष्मन् + अत् + क्वुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
श्लेष्म + अत् + क्वुन् - नलोपः प्रातिपदिकान्तस्य 8.2.7
श्लेष्म + अत् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
श्लेष्म + अत् + अक - युवोरनाकौ 7.1.1
श्लेष्मातक - अकः सवर्णे दीर्घः 6.1.101
श्लेष्मातक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्लेष्मातक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्लेष्मातक + रु - ससजुषो रुः 8.2.66
श्लेष्मातक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्लेष्मातकः - खरवसानयोर्विसर्जनीयः 8.3.15