गुग्गुलुः

सुधाव्याख्या

गोजति । ‘गुजँ अव्यक्ते शब्दे' (भ्वा० प० से०) । क्विप् (३.२.१७८) । गुजो व्याधेर्गुडति । ‘गुड रक्षणे' (तु० प० से०) । बाहुलकादुः । डलयोरेकत्वम् ॥


प्रक्रिया

धातुः - गुजँ अव्यक्ते शब्दे , गुडँ रक्षायाम्


गुजँ अव्यक्ते शब्दे
गुज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुज् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
गुज् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुज् - वेरपृक्तस्य 6.1.67
गुडँ रक्षायाम्
गुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुड् + उ - बाहुलकात् ।
गुलु - डलयोरेकत्वम् ।
गुज् + सु + गुलु + सु - उपपदमतिङ् 2.2.19
गुज् + गुलु - सुपो धातुप्रातिपदिकयोः 2.4.71
गुग् + गुलु - चोः कुः 8.2.30
गुग्गुलु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गुग्गुलु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुग्गुलु + रु - ससजुषो रुः 8.2.66
गुग्गुलु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गुग्गुलुः - खरवसानयोर्विसर्जनीयः 8.3.15