उलूखलकः

सुधाव्याख्या

ऊर्ध्व खम् उलूखम् । पृषोदरादिः (६.३.१०९) । उलूखं लाति । ‘ला दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । ततः स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः - ला आदाने


ऊर्ध्व + सु + ख + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
ऊर्ध्व + ख - सुपो धातुप्रातिपदिकयोः 2.4.71
उलूख - पृषोदरादीनि यथोपदिष्टम् 6.3.109
ला आदाने
उलूख + अम् + ला + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
उलूख + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
उलूख + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उलूख + ल् + अ - आतो लोप इटि च 6.4.64
उलूखल + सु + कन् - संज्ञायां कन् 5.3.75
उलूखल + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
उलूखलक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उलूखलक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उलूखलक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उलूखलक + रु - ससजुषो रुः 8.2.66
उलूखलक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उलूखलकः - खरवसानयोर्विसर्जनीयः 8.3.15