बहुवारकः

सुधाव्याख्या

बहून् वारयति । ‘वृञ् वरणे' (स्वा० उ० से०) । णिजन्तः (३.१.२६) । क्वुन् शिल्पिसंज्ञयोः (उ० २.३२) ॥


प्रक्रिया

धातुः - वृञ् वरणे


वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
बहु + शस् + वृ + णिच् - हेतुमति च 3.1.26, उपपदमतिङ् 2.2.19
बहु + वृ + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
बहु + वृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
बहु + वार् + इ - अचो ञ्णिति 7.2.115
बहु + वार् + इ + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम् ।
बहु + वार् + क्वुन् - णेरनिटि 6.4.51
बहु + वार् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
बहु + वार् + अक - युवोरनाकौ 7.1.1
बहुवारक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
बहुवारक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बहुवारक + रु - ससजुषो रुः 8.2.66
बहुवारक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
बहुवारकः - खरवसानयोर्विसर्जनीयः 8.3.15