कुम्भः

सुधाव्याख्या

क्विति । ‘कुम्भोलूखलकम्' इति संघातविगृहीतम् । ‘कार्मुके वारनार्यां च कुम्भः क्लीबं तु गुग्गुलौ' इति रभसः । ‘उदूखले गुग्गुलौ च क्लीबमुक्तमुलूखलम्' इति रुद्रः। कुम्भोलूखलकं कुम्भं कुम्भोलुः खलकं वरम्' इति वाचस्पतिः ॥ कमुम्भति । ‘उम्भ पूरणे (तु० प० से०) । ‘कर्मण्यण्' (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४)