न्यग्रोधः

सुधाव्याख्या

न्यगिति । न्यक् रुणद्धि । ‘रुधिर् आवरणे' (रु० उ० अ०) । ‘कर्मण्यण्’ (३.२.१) । ‘न्यग्रोधस्तु पुमान् व्यामवटयोश्च शमीतरौ । न्यग्रोधी तूपचित्रायाम् ॥