पर्कटी

सुधाव्याख्या

पृच्यते । ‘पृची सम्पर्के’ (रु० प० से०) । बाहुलकात् कटः । गौरादिङीष् (४.१.४१) । ‘पर्कटी नूतनफले पूगादेः प्लक्षपादपे' । शाश्वतेऽपि ‘विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादप:' ॥