श्रीफलः

सुधाव्याख्या

श्रीपदं श्रीप्रियं वा फलमस्य । शाकपार्थिवादिः (वा० २.१.६९) । ‘श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ॥


प्रक्रिया

श्री + सु + फल + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
श्री + फल - सुपो धातुप्रातिपदिकयोः 2.4.71
श्रीफल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रीफल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रीफल + रु - ससजुषो रुः 8.2.66
श्रीफल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रीफलः - खरवसानयोर्विसर्जनीयः 8.3.15