शाण्डिल्यः

सुधाव्याख्या

शण्डते । ‘शडि रुजायाम्' (भ्वा० आ० से०) । ‘सलि (उ० १.५४) इत्यादिनेलच् । शण्डिलस्य गोत्रापत्यम् । ‘गर्गादिभ्यो यञ्’ (४.१.१०५) । शाण्डिल्य इव, इति । शण्डयति रुजं करोति वा । इलचि (उ० १.५४) स्वार्थे ष्यञ् । (वा० ५.१.१२४) । ‘शाण्डिल्यः पावकान्तरे । बिल्वे मुनौ च' इति हैमः ॥


प्रक्रिया

धातुः - शडिँ रुजायां सङ्घाते च


शड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श + नुम् + ड् - इदितो नुम् धातोः 7.1.58
श + न् + ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शंड् - नश्चापदान्तस्य झलि 8.3.24
शण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
शण्ड् + इलच् - सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (१.५४) । उणादिसूत्रम् ।
शण्डिल - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शण्डिल + ङस् + यञ् - गर्गादिभ्यो यञ् 4.1.105
शण्डिल + यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
शण्डिल + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शाण्डिल् + य - यस्येति च 6.4.148
शाण्डिल् + य - तद्धितेष्वचामादेः 7.2.117
शाण्डिल्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शाण्डिल्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शाण्डिल्य + रु - ससजुषो रुः 8.2.66
शाण्डिल्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शाण्डिल्यः - खरवसानयोर्विसर्जनीयः 8.3.15