शोभाञ्जनः

सुधाव्याख्या

शोभेति । शोभामनक्ति । ‘अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु’ (रु० प० से०) । कर्तरि ल्युट् (३.३.११३) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युज्वा ॥ प्रज्ञाद्यणि (५.३.४८) ‘शौभाञ्जन:' ॥ सुष्ठु भा तामनक्ति । ल्युट् (३.३.११३) । प्रज्ञाद्यणि (५.४.३८) (‘सौभाञ्जनः') दन्त्यादिरपि ॥


प्रक्रिया

धातुः - अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु


अञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोभ + अम् + अञ्ज् + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113, उपपदमतिङ् 2.2.19
शोभ + अञ्ज् + ल्युट् - सुपो धातुप्रातिपदिकयोः 2.4.71
शोभ + अञ्ज् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शोभ + अञ्ज् + अन - युवोरनाकौ 7.1.1
शोभाञ्ज् + अन - अकः सवर्णे दीर्घः 6.1.101
शोभाञ्जन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शोभाञ्जन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोभाञ्जन + रु - ससजुषो रुः 8.2.66
शोभाञ्जन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शोभाञ्जनः - खरवसानयोर्विसर्जनीयः 8.3.15