वेतसः

सुधाव्याख्या

अथेति । अयनम् । ‘इण् गतौ' (अ० प० अ०) । ‘नपुंसके (3.३.११४) इति क्तः । वा विकल्पस्येतं ज्ञानं स्यति । ‘षोऽन्तकर्मणि' (दि० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । यद्वा ऊयते । ‘वेञ् तन्तुसन्ताने' (भ्वा० उ० अ०) । 'वेञस्तुट् च' (उ० ३.११८) इत्यसच् । बाहुलकादात्वं न । यत्तु-‘वेतसवाहसपनसाः' इत्यसनि निपातनादेव तुट् - इत्याह मुकुटः । तन्न । उणादिषु तत्सूत्रादर्शनात् ॥


प्रक्रिया

धातुः - इण् गतौ , षो अन्तकर्मणि


इण् गतौ
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इ + क्त - नपुंसके भावे क्तः 3.3.114
इ + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
षो अन्तकर्मणि
सो - धात्वादेः षः सः 6.1.64
वा + इत + अम् + सो + क - आतोऽनुपसर्गे कः 3.2.3
वा + इत + सो + क - सुपो धातुप्रातिपदिकयोः 2.4.71
वा + इत + सो + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वा + इत + सा + अ - आदेच उपदेशेऽशिति 6.1.45
वा + इत + स् + अ - आतो लोप इटि च 6.4.64
वेत + स् + अ - आद्गुणः 6.1.87
वेतस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वेतस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेतस + रु - ससजुषो रुः 8.2.66
वेतस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वेतसः - खरवसानयोर्विसर्जनीयः 8.3.15