पर्णः

सुधाव्याख्या

पृणति । ‘पृण प्रीणने (तु० प० से०) । अच् (३.१.१३४) । यद्वा प्रशस्तानि पर्णान्यस्य । अर्शआद्यच् (५.२.१२७) । यद्वा पिपर्ति । ‘पृ पालनपूरणयोः' (जु० प० से०) । ‘कृपृवृषिभ्याञ्भ्यो नः । ‘पर्णं पत्रे किंशुके ना' ॥