पलाशः

सुधाव्याख्या

पेति । प्रशस्तानि पलाशान्यस्य । अर्शआद्यच् (५.२.१२७) । यद्वा पलं मांसमश्नाति । ‘अश भोजने' (क्रया० प० से०) । ‘कर्मण्यण्’ (३.२.१.) । ‘पलाशः किंशुकेऽस्रपे । हरिते पलाशं पत्रे' इति हैमः ॥