कर्परालः

सुधाव्याख्या

कर्परमालति । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘कर्मण्यम्' (३.२.१) । यद्वा कर्परास्यास्ति । सिध्मादित्वात् (५.२.९७) लच् ॥ ‘कन्दरालः' इति वा पाठः । पूर्ववत् ॥