बोधिद्रुमः

सुधाव्याख्या

बोधीति । बुध्यते । ‘बुध अवगमने' (दि० आ० अ०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ‘नोक्तमनित्यम्' इति न गुणनिषेधः । ‘बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे । रत्नकोषेऽपि ‘पिप्पलो बोधिरश्वत्थः' इति । बोधिशासौ द्रुमश्च ॥