परागः

सुधाव्याख्या

पराग इति । परा गच्छति । ‘गम्लृ गतौ (भ्वा० प० अ०) । ‘अन्येष्वपि-' (वा० ३.२.४८) इति डः । ‘परागः सुमनोरेणौ धूलीस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपरागे च चन्दने' ।


प्रक्रिया

धातुः - गमॢँ गतौ


गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परा + गम् + ड - अन्यत्रापि दृश्यत इति वक्तव्यम् (3.2.48) । वार्तिकम् ।
परा + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
परा + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
पराग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पराग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पराग + रु - ससजुषो रुः 8.2.66
पराग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परागः - खरवसानयोर्विसर्जनीयः 8.3.15