मकरन्दः

सुधाव्याख्या

मकरन्द इति । मकरमपि द्यति । कामजनकत्वात् । ‘दो अवखण्डने (दि० प० अ०) । ‘आतोऽनु-' (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । यद्वा मकरमप्यन्दति । ‘अदि बन्धने' (भ्वा० प० से०) । ‘कर्मण्यम्' (३.२.१) । शकन्थ्वादिः (वा० ६.१.९४) । यत्तु ‘गतिकारकोपपदानाम् (प० २.२.१९) इत्युक्तेः सुबुत्पत्ते: प्राक् समासे प्रध्ययनवत् पररूपत्वम् - इति मुकुटः । तन्न । उत्तरदले विभक्त्यनुत्पत्तावपि पूर्वदले विभक्तिसत्त्वात् । अन्यथा ‘राजदर्शी’ ‘चर्मकारः’ इत्यादौ नलोपो न स्यात् । दृष्टान्तोऽप्यसङ्गतः । ‘प्राध्ययनम्' इत्यस्यैवेष्टत्वात् ॥