कुसुमम्

सुधाव्याख्या

कुस्यति । ‘कुस संश्लेषणे (दि० प० से०) । ‘कुसेरुम्भोमेदेता:' (उ० ४.१०६) इत्युमः । संज्ञापूर्वकत्वान्न गुणः । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयो:' ॥


प्रक्रिया

धातुः - कुसँ संश्लेषणे


कुस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुस् + उम - कुसेरुम्भोमेदेताः (४.१०६) । उणादिसूत्रम् ।
कुस् + उम - संज्ञापूर्वकत्वान्नगुणः ।
कुसुम + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुसुम + अम् - अतोऽम् 7.1.24
कुसुमम् - अमि पूर्वः 6.1.107