सुमनसः

सुधाव्याख्या

स्त्रिया इति । सुष्ठु मन्यन्ते आभिः । ‘मन ज्ञाने' (दि० प० से०) । असुन् (उ० ४.१८९) । मुकुटस्तु - ‘सुप्रीतं मनो आभिः' इति विगृह्य ‘प्रादिसमासः' इत्याह । तन्न । अन्यपदार्थत्वालाभात् । ‘भूम्नि स्त्रियां सुमनसः' इति रत्नकोषः । ‘सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः' इति मेदिन्यादेरेकत्वमपि । ‘पुष्पं सुमनाः कुसुमम्' इति नाममाला ॥