देवजग्धकम्

सुधाव्याख्या

देवैरद्यते स्म । क्त: (३.२.१०२) । ‘अदो जग्धिय॑प्ति किति’ (२.४.३६)॥


प्रक्रिया

धातुः - अदँ भक्षणे


अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देव + भिस् + अद् + क्त - उपपदमतिङ् 2.2.19, निष्ठा 3.2.102
देव + अद् + क्त - सुपो धातुप्रातिपदिकयोः 2.4.71
देव + अद् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
देव + जग्धि + त - अदो जग्धिर्ल्यप्ति किति 2.4.36
देव + जग्ध् + त - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
देव + जग्ध् + ध - झषस्तथोर्धोऽधः 8.2.40
देव + जग्द् + ध - झलां जश् झशि 8.4.53
देव + जग्ध - झरो झरि सवर्णे 8.4.65
देवजग्ध + सु + कन् - संज्ञायां कन् 5.3.75
देवजग्ध + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
देवजग्धक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
देवजग्धक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
देवजग्धक + अम् - अतोऽम् 7.1.24
देवजग्धकम् - अमि पूर्वः 6.1.107