कुथः

सुधाव्याख्या

कुथ्यति । ‘कुथ पूतीभावे' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । -‘कुथति' इति स्वाम्युक्तविग्रहश्चिन्त्यः । ‘कुथः स्त्रीपुंसयोर्वणे कम्बले पुंसि बर्हिषि’ (इति मेदिनी) ॥