कुशम्

सुधाव्याख्या

अस्त्रीति । कौ शेते । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । यद्वा कुश्यति । ‘कुशिर श्लेषे' । ‘इगुपध-' (३.१.१३५) इति कः । ‘कुशो रामसुते द्वीपे पापिष्ठे योक्त्रमत्तयोः । कुशी फाले कुशो दर्भे कुशा वल्गा कुशं जले' इति हैमः) ॥